वन्दे वन्दारु मन्दारमिन्दिरानन्द कन्दलंअमन्दानन्द सन्दोह बन्धुरं सिन्धुराननम् अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।अङ्गीकृताखिल विभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ 1 ॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि ।मालादृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागर सम्भवा याः ॥ 2 ॥ आमीलिताक्षमधिग्यम मुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्ग तन्त्रम् ।आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवन्मम भुजङ्ग शयाङ्गना याः ॥ 3 ॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति ।कामप्रदा…
Category: Sanskrit
दक्षिणा मूर्ति स्तॊत्रम्
शान्तिपाठः ॐ यो ब्रह्माणं विदधाति पूर्वंयो वै वेदांश्च प्रहिणोति तस्मै ।तंहदेवमात्म बुद्धिप्रकाशंमुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ध्यानम् ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानंवर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिंस्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ वटविटपिसमीपे भूमिभागे निषण्णंसकलमुनिजनानां ज्ञानदातारमारात् ।त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवंजननमरणदुःखच्छेद दक्षं नमामि ॥ चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा ।गुरोस्तु मौनव्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥ ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः…
श्री महा गणॆश पञ्च रत्नम्
मुदा करात्त मोदकं सदा विमुक्ति साधकम् ।कलाधरावतंसकं विलासिलोक रक्षकम् ।अनायकैक नायकं विनाशितेभ दैत्यकम् ।नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥ नतेतराति भीकरं नवोदितार्क भास्वरम् ।नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् ।सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् ।महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ 2 ॥ समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरम् ।दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् ।कृपाकरं क्षमाकरं मुदाकरं यशस्करम् ।मनस्करं नमस्कृतां…
निर्वाण षट्कम्
शिवोहं शिवोहं, शिवोहं शिवोहं, शिवोहं शिवोहं मनो बुध्यहङ्कार चित्तानि नाहंन च श्रोत्र जिह्वा न च घ्राणनेत्रम् ।न च व्योम भूमिर्-न तेजो न वायुःचिदानन्द रूपः शिवोहं शिवोहम् ॥ 1 ॥ अहं प्राण सञ्ज्ञो न वैपञ्च वायुःन वा सप्तधातुर्-न वा पञ्च कोशाः ।नवाक्पाणि पादौ न चोपस्थ पायूचिदानन्द रूपः शिवोहं शिवोहम् ॥ 2 ॥ न मे द्वेषरागौ न…
भज गॊविन्दम् (मॊह मुद्गरम्)
भज गोविन्दं भज गोविन्दंगोविन्दं भज मूढमते ।सम्प्राप्ते सन्निहिते कालेनहि नहि रक्षति डुक्रिङ्करणे ॥ 1 ॥ मूढ जहीहि धनागमतृष्णांकुरु सद्बुद्धिम् मनसि वितृष्णाम् ।यल्लभसे निज कर्मोपात्तंवित्तं तेन विनोदय चित्तम् ॥ 2 ॥ नारी स्तनभर नाभीदेशंदृष्ट्वा मा गा मोहावेशम् ।एतन्मांस वसादि विकारंमनसि विचिन्तया वारं वारम् ॥ 3 ॥ नलिनी दलगत जलमति तरलंतद्वज्जीवित मतिशय चपलम् ।विद्धि व्याध्यभिमान ग्रस्तंलोकं शोकहतं…
शिवानन्द लहरि
कलाभ्यां चूडालङ्कृत-शशि कलाभ्यां निज तपः-फलाभ्यां भक्तेशु प्रकटित-फलाभ्यां भवतु मे ।शिवाभ्यां-अस्तोक-त्रिभुवन शिवाभ्यां हृदि पुनर्-भवाभ्याम् आनन्द स्फुर-दनुभवाभ्यां नतिरियम् ॥ 1 ॥ गलन्ती शम्भो त्वच्-चरित-सरितः किल्बिश-रजोदलन्ती धीकुल्या-सरणिशु पतन्ती विजयताम्दिशन्ती संसार-भ्रमण-परिताप-उपशमनंवसन्ती मच्-चेतो-हृदभुवि शिवानन्द-लहरी 2 त्रयी-वेद्यं हृद्यं त्रि-पुर-हरम् आद्यं त्रि-नयनंजटा-भारोदारं चलद्-उरग-हारं मृग धरम्महा-देवं देवं मयि सदय-भावं पशु-पतिंचिद्-आलम्बं साम्बं शिवम्-अति-विडम्बं हृदि भजे 3 सहस्रं वर्तन्ते जगति विबुधाः क्शुद्र-फलदान मन्ये स्वप्ने वा…
शिव पञ्चाक्षरि स्तॊत्रम्
ॐ नमः शिवाय शिवाय नमः ॐॐ नमः शिवाय शिवाय नमः ॐ नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय ।नित्याय शुद्धाय दिगम्बरायतस्मै “न” काराय नमः शिवाय ॥ 1 ॥ मन्दाकिनी सलिल चन्दन चर्चितायनन्दीश्वर प्रमथनाथ महेश्वराय ।मन्दार मुख्य बहुपुष्प सुपूजिताय तस्मै “म” काराय नमः शिवाय ॥ 2 ॥ शिवाय गौरी वदनाब्ज बृन्दसूर्याय दक्षाध्वर नाशकाय ।श्री नीलकण्ठाय वृषभध्वजायतस्मै “शि” काराय नमः शिवाय ॥…
प्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम् । यत्स्वप्नजागरसुषुप्तिमवैति नित्यं तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥१॥ प्रातर्भजामि मनसा वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण । यन्नेतिनेतिवचनैर्निगमा अवोचं_ स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥२॥ प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सनातनपदं पुरुषोत्तमाख्यम् । यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥३॥