अर्ध नारीश्वर अष्टकम्

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।धम्मिल्लकायै च जटाधरायनमः शिवायै च नमः शिवाय ॥ 1 ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्ज विचर्चिताय ।कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय ।हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ 3 ॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय ।समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ 4 ॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय ।दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ 5 ॥ अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय ।निरीश्वरायै…

द्वादश ज्यॊतिर्लिन्ग स्तॊत्रम्

लघु स्तोत्रम् सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् ।उज्जयिन्यां महाकालम् ॐकारेत्वमामलेश्वरम् ॥पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् ।सेतुबन्धेतु रामेशं नागेशं दारुकावने ॥वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे ।हिमालयेतु केदारं घृष्णेशन्तु विशालके ॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।सप्त जन्म कृतं पापं स्मरणेन विनश्यति ॥ सम्पूर्ण स्तोत्रम् सौराष्ट्रदेशे विशदे‌உतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥ श्रीशैलशृङ्गे…

शिव भुजङ्गम्

गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ 1 ॥ अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् ।हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ 2 ॥ स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं मनोहारि सर्वाङ्गरत्नोरुभूषम् ।जटाहीन्दुगङ्गास्थिशम्याकमौलिं पराशक्तिमित्रं नमः पञ्चवक्त्रम् ॥ 3 ॥ शिवेशानतत्पूरुषाघोरवामादिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा ॥ 4 ॥ प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणि श्रीमहः श्याममर्धम् ।गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसम्पत्तिहेतोः ॥ 5 ॥ स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमन्दारमालाभिषिक्तम् ।नमस्यामि…

उमा महॆश्वर स्तॊत्रम्

नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् ।नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 1 ॥ नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् ।नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 2 ॥ नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।विभूतिपाटीरविलेपनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 3 ॥ नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् ।जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 4 ॥ नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।प्रपञ्चसृष्टिस्थितिसंहृताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 5 ॥ नमः शिवाभ्यामतिसुन्दराभ्यां अत्यन्तमासक्तहृदम्बुजाभ्याम् ।अशेषलोकैकहितङ्कराभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 6 ॥ नमः…

श्री अन्नपूर्णा स्तॊत्रम्

नित्यानन्दकरी वराभयकरी सौन्दर्य रत्नाकरीनिर्धूताखिल घोर पावनकरी प्रत्यक्ष माहेश्वरी ।प्रालेयाचल वंश पावनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ 1 ॥ नाना रत्न विचित्र भूषणकरि हेमाम्बराडम्बरीमुक्ताहार विलम्बमान विलसत्-वक्षोज कुम्भान्तरी ।काश्मीरागरु वासिता रुचिकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ 2 ॥ योगानन्दकरी रिपुक्षयकरी धर्मैक्य निष्ठाकरीचन्द्रार्कानल भासमान लहरी त्रैलोक्य रक्षाकरी ।सर्वैश्वर्यकरी तपः फलकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ 3 ॥ कैलासाचल…

शिव मानस पूज

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरंनानारत्न विभूषितं मृगमदा मोदाङ्कितं चन्दनम् । जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथादीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥ सौवर्णे नवरत्नखण्ड रचिते पात्रे घृतं पायसंभक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।शाकानामयुतं जलं रुचिकरं कर्पूर खण्डोज्ज्चलंताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलंवीणा…

तॊटकाष्टकम्

विदिताखिल शास्त्र सुधा जलधेमहितोपनिषत्-कथितार्थ निधे ।हृदये कलये विमलं चरणंभव शङ्कर देशिक मे शरणम् ॥ 1 ॥ करुणा वरुणालय पालय मां भवसागर दुःख विदून हृदम् ।रचयाखिल दर्शन तत्त्वविदं भव शङ्कर देशिक मे शरणम् ॥ 2 ॥ भवता जनता सुहिता भविता निजबोध विचारण चारुमते ।कलयेश्वर जीव विवेक विदं भव शङ्कर देशिक मे शरणम् ॥ 3 ॥ भव एव भवानिति मे नितरां समजायत…

सौन्दर्य लहरि

प्रथम भागः – आनन्द लहरि भुमौस्खलित पादानाम् भूमिरेवा वलम्बनम् ।त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे ॥ शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुंन चेदेवं देवो न खलु कुशलः स्पन्दितुमपि।अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपिप्रणन्तुं स्तोतुं वा कथ-मक्र्त पुण्यः प्रभवति॥ 1 ॥ तनीयांसुं पांसुं तव चरण पङ्केरुह-भवंविरिञ्चिः सञ्चिन्वन् विरचयति लोका-नविकलम् ।वहत्येनं शौरिः कथमपि सहस्रेण शिरसांहरः सङ्क्षुद्-यैनं भजति भसितोद्धूल…

जगन्नाथाष्टकम्

कदाचि त्कालिन्दी तटविपिनसङ्गीतकपरोमुदा गोपीनारी वदनकमलास्वादमधुपःरमाशम्भुब्रह्मा मरपतिगणेशार्चितपदोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 1 ॥ भुजे सव्ये वेणुं शिरसि शिखिपिंछं कटितटेदुकूलं नेत्रान्ते सहचर कटाक्षं विदधतेसदा श्रीमद्बृन्दा वनवसतिलीलापरिचयोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 2 ॥ महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरेवसन्प्रासादान्त -स्सहजबलभद्रेण बलिनासुभद्रामध्यस्थ स्सकलसुरसेवावसरदोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 3 ॥ कथापारावारा स्सजलजलदश्रेणिरुचिरोरमावाणीसौम स्सुरदमलपद्मोद्भवमुखैःसुरेन्द्रै राराध्यः श्रुतिगणशिखागीतचरितोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥…

अच्युताष्टकम्

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिका वल्लभंजानकीनायकं रामचन्द्रं भजे ॥ 1 ॥ अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिका राधितम् ।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे ॥ 2 ॥ विष्णवे जिष्णवे शङ्कने चक्रिणेरुक्मिणी राहिणे जानकी जानये ।वल्लवी वल्लभायार्चिता यात्मनेकंस विध्वंसिने वंशिने ते नमः ॥ 3 ॥ कृष्ण गोविन्द हे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे ।अच्युतानन्त हे माधवाधोक्षजद्वारकानायक…