नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् ।नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 1 ॥ नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् ।नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 2 ॥ नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।विभूतिपाटीरविलेपनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 3 ॥ नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् ।जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 4 ॥ नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।प्रपञ्चसृष्टिस्थितिसंहृताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 5 ॥ नमः शिवाभ्यामतिसुन्दराभ्यां अत्यन्तमासक्तहृदम्बुजाभ्याम् ।अशेषलोकैकहितङ्कराभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 6 ॥ नमः…
Author: admin
श्री अन्नपूर्णा स्तॊत्रम्
नित्यानन्दकरी वराभयकरी सौन्दर्य रत्नाकरीनिर्धूताखिल घोर पावनकरी प्रत्यक्ष माहेश्वरी ।प्रालेयाचल वंश पावनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ 1 ॥ नाना रत्न विचित्र भूषणकरि हेमाम्बराडम्बरीमुक्ताहार विलम्बमान विलसत्-वक्षोज कुम्भान्तरी ।काश्मीरागरु वासिता रुचिकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ 2 ॥ योगानन्दकरी रिपुक्षयकरी धर्मैक्य निष्ठाकरीचन्द्रार्कानल भासमान लहरी त्रैलोक्य रक्षाकरी ।सर्वैश्वर्यकरी तपः फलकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ 3 ॥ कैलासाचल…
शिव मानस पूज
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरंनानारत्न विभूषितं मृगमदा मोदाङ्कितं चन्दनम् । जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथादीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥ सौवर्णे नवरत्नखण्ड रचिते पात्रे घृतं पायसंभक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।शाकानामयुतं जलं रुचिकरं कर्पूर खण्डोज्ज्चलंताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलंवीणा…
तॊटकाष्टकम्
विदिताखिल शास्त्र सुधा जलधेमहितोपनिषत्-कथितार्थ निधे ।हृदये कलये विमलं चरणंभव शङ्कर देशिक मे शरणम् ॥ 1 ॥ करुणा वरुणालय पालय मां भवसागर दुःख विदून हृदम् ।रचयाखिल दर्शन तत्त्वविदं भव शङ्कर देशिक मे शरणम् ॥ 2 ॥ भवता जनता सुहिता भविता निजबोध विचारण चारुमते ।कलयेश्वर जीव विवेक विदं भव शङ्कर देशिक मे शरणम् ॥ 3 ॥ भव एव भवानिति मे नितरां समजायत…
सौन्दर्य लहरि
प्रथम भागः – आनन्द लहरि भुमौस्खलित पादानाम् भूमिरेवा वलम्बनम् ।त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे ॥ शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुंन चेदेवं देवो न खलु कुशलः स्पन्दितुमपि।अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपिप्रणन्तुं स्तोतुं वा कथ-मक्र्त पुण्यः प्रभवति॥ 1 ॥ तनीयांसुं पांसुं तव चरण पङ्केरुह-भवंविरिञ्चिः सञ्चिन्वन् विरचयति लोका-नविकलम् ।वहत्येनं शौरिः कथमपि सहस्रेण शिरसांहरः सङ्क्षुद्-यैनं भजति भसितोद्धूल…
अच्युताष्टकम्
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिका वल्लभंजानकीनायकं रामचन्द्रं भजे ॥ 1 ॥ अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिका राधितम् ।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे ॥ 2 ॥ विष्णवे जिष्णवे शङ्कने चक्रिणेरुक्मिणी राहिणे जानकी जानये ।वल्लवी वल्लभायार्चिता यात्मनेकंस विध्वंसिने वंशिने ते नमः ॥ 3 ॥ कृष्ण गोविन्द हे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे ।अच्युतानन्त हे माधवाधोक्षजद्वारकानायक…
जगन्नाथाष्टकम्
कदाचि त्कालिन्दी तटविपिनसङ्गीतकपरोमुदा गोपीनारी वदनकमलास्वादमधुपःरमाशम्भुब्रह्मा मरपतिगणेशार्चितपदोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 1 ॥ भुजे सव्ये वेणुं शिरसि शिखिपिंछं कटितटेदुकूलं नेत्रान्ते सहचर कटाक्षं विदधतेसदा श्रीमद्बृन्दा वनवसतिलीलापरिचयोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 2 ॥ महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरेवसन्प्रासादान्त -स्सहजबलभद्रेण बलिनासुभद्रामध्यस्थ स्सकलसुरसेवावसरदोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 3 ॥ कथापारावारा स्सजलजलदश्रेणिरुचिरोरमावाणीसौम स्सुरदमलपद्मोद्भवमुखैःसुरेन्द्रै राराध्यः श्रुतिगणशिखागीतचरितोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥…
कनक धारा स्तॊत्रम्
वन्दे वन्दारु मन्दारमिन्दिरानन्द कन्दलंअमन्दानन्द सन्दोह बन्धुरं सिन्धुराननम् अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।अङ्गीकृताखिल विभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ 1 ॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि ।मालादृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागर सम्भवा याः ॥ 2 ॥ आमीलिताक्षमधिग्यम मुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्ग तन्त्रम् ।आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवन्मम भुजङ्ग शयाङ्गना याः ॥ 3 ॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति ।कामप्रदा…
दक्षिणा मूर्ति स्तॊत्रम्
शान्तिपाठः ॐ यो ब्रह्माणं विदधाति पूर्वंयो वै वेदांश्च प्रहिणोति तस्मै ।तंहदेवमात्म बुद्धिप्रकाशंमुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ध्यानम् ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानंवर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिंस्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ वटविटपिसमीपे भूमिभागे निषण्णंसकलमुनिजनानां ज्ञानदातारमारात् ।त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवंजननमरणदुःखच्छेद दक्षं नमामि ॥ चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा ।गुरोस्तु मौनव्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥ ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः…
श्री महा गणॆश पञ्च रत्नम्
मुदा करात्त मोदकं सदा विमुक्ति साधकम् ।कलाधरावतंसकं विलासिलोक रक्षकम् ।अनायकैक नायकं विनाशितेभ दैत्यकम् ।नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥ नतेतराति भीकरं नवोदितार्क भास्वरम् ।नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् ।सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् ।महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ 2 ॥ समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरम् ।दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् ।कृपाकरं क्षमाकरं मुदाकरं यशस्करम् ।मनस्करं नमस्कृतां…