॥ॐ ॐ॥ओङ्कारबिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः ।कामदं मोक्षदं तस्मादोङ्काराय नमोनमः ॥ 1 ॥ ॥ॐ नं॥नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः ।नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥ ॥ॐ मं॥महातत्वं महादेव प्रियं ज्ञानप्रदं परम् ।महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 ॥ ॥ॐ शिं॥शिवं शान्तं शिवाकारं शिवानुग्रहकारणम् ।महापापहरं तस्माच्छिकाराय नमोनमः ॥ 4 ॥ ॥ॐ वां॥वाहनं वृषभोयस्य वासुकिः कण्ठभूषणम् ।वामे शक्तिधरं…
Author: admin
लक्ष्मी नृसिंह करावलम्ब स्तॊत्रम्
श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिराजित पुण्यमूर्ते ।योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 1 ॥ ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।लक्ष्मीलसत्कुचसरोरुहराजहंस लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 2 ॥ संसारदावदहनाकरभीकरोरु-ज्वालावलीभिरतिदग्धतनूरुहस्य ।त्वत्पादपद्मसरसीरुहमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 3 ॥ संसारजालपतिततस्य जगन्निवास सर्वेन्द्रियार्थ बडिशाग्र झषोपमस्य ।प्रोत्कम्पित प्रचुरतालुक मस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 4 ॥ संसारकूमपतिघोरमगाधमूलं सम्प्राप्य दुःखशतसर्पसमाकुलस्य ।दीनस्य देव कृपया…
गॊविन्दाष्टकम्
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम् ।गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।मायाकल्पितनानाकारमनाकारं भुवनाकारम् ।क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ 1 ॥ मृत्स्नामत्सीहेति यशोदाताडनशैशव सन्त्रासम् ।व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकम् ।लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥ 2 ॥ त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् ।कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् ।शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥ 3 ॥ गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् ।गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।गोभिर्निगदित गोविन्दस्फुटनामानं बहुनामानम् ।गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम्…
नारायण स्तॊत्रम्
नारायण नारायण जय गोविन्द हरे ॥नारायण नारायण जय गोपाल हरे ॥ करुणापारावार वरुणालयगम्भीर नारायण ॥ 1 ॥घननीरदसङ्काश कृतकलिकल्मषनाशन नारायण ॥ 2 ॥ यमुनातीरविहार धृतकौस्तुभमणिहार नारायण ॥ 3 ॥पीताम्बरपरिधान सुरकल्याणनिधान नारायण ॥ 4 ॥ मञ्जुलगुञ्जाभूष मायामानुषवेष नारायण ॥ 5 ॥राधाधरमधुरसिक रजनीकरकुलतिलक नारायण ॥ 6 ॥ मुरलीगानविनोद वेदस्तुतभूपाद नारायण ॥ 7 ॥बर्हिनिबर्हापीड नटनाटकफणिक्रीड नारायण ॥ 8 ॥…
श्री राम पन्च रत्न स्तॊत्रम्
कञ्जातपत्रायत लोचनाय कर्णावतंसोज्ज्वल कुण्डलायकारुण्यपात्राय सुवंशजाय नमोस्तु रामायसलक्ष्मणाय ॥ 1 ॥ विद्युन्निभाम्भोद सुविग्रहाय विद्याधरैस्संस्तुत सद्गुणायवीरावतारय विरोधिहर्त्रे नमोस्तु रामायसलक्ष्मणाय ॥ 2 ॥ संसक्त दिव्यायुध कार्मुकाय समुद्र गर्वापहरायुधायसुग्रीवमित्राय सुरारिहन्त्रे नमोस्तु रामायसलक्ष्मणाय ॥ 3 ॥ पीताम्बरालङ्कृत मध्यकाय पितामहेन्द्रामर वन्दितायपित्रे स्वभक्तस्य जनस्य मात्रे नमोस्तु रामायसलक्ष्मणाय ॥ 4 ॥ नमो नमस्ते खिल पूजिताय नमो नमस्तेन्दुनिभाननायनमो नमस्ते रघुवंशजाय नमोस्तु रामायसलक्ष्मणाय ॥ 5…
ललिता पञ्च रत्नम्
प्रातः स्मरामि ललितावदनारविन्दंबिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।आकर्णदीर्घनयनं मणिकुण्डलाढ्यंमन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥ 1 ॥ प्रातर्भजामि ललिताभुजकल्पवल्लींरक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।माणिक्यहेमवलयाङ्गदशोभमानांपुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥ 2 ॥ प्रातर्नमामि ललिताचरणारविन्दंभक्तेष्टदाननिरतं भवसिन्धुपोतम् ।पद्मासनादिसुरनायकपूजनीयंपद्माङ्कुशध्वजसुदर्शनलांछनाढ्यम् ॥ 3 ॥ प्रातः स्तुवे परशिवां ललितां भवानींत्रय्यन्तवेद्यविभवां करुणानवद्याम् ।विश्वस्य सृष्टविलयस्थितिहेतुभूतांविद्येश्वरीं निगमवाङ्ममनसातिदूराम् ॥ 4 ॥ प्रातर्वदामि ललिते तव पुण्यनामकामेश्वरीति कमलेति महेश्वरीति ।श्रीशाम्भवीति जगतां जननी परेतिवाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ 5 ॥ यः श्लोकपञ्चकमिदं ललिताम्बिकायाःसौभाग्यदं सुललितं पठति…
विष्णु षट्पदि
अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ।भूतदयां विस्तारय तारय संसारसागरतः ॥ 1 ॥ दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे ।श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ॥ 2 ॥ सत्यपि भेदापगमे नाथ तवाஉहं न मामकीनस्त्वम् ।सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ 3 ॥ उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ।दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥ 4 ॥ मत्स्यादिभिरवतारैरवतारवताஉवता सदा वसुधाम् ।परमेश्वर…
अर्ध नारीश्वर अष्टकम्
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।धम्मिल्लकायै च जटाधरायनमः शिवायै च नमः शिवाय ॥ 1 ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्ज विचर्चिताय ।कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय ।हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ 3 ॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय ।समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ 4 ॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय ।दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ 5 ॥ अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय ।निरीश्वरायै…
द्वादश ज्यॊतिर्लिन्ग स्तॊत्रम्
लघु स्तोत्रम् सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् ।उज्जयिन्यां महाकालम् ॐकारेत्वमामलेश्वरम् ॥पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् ।सेतुबन्धेतु रामेशं नागेशं दारुकावने ॥वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे ।हिमालयेतु केदारं घृष्णेशन्तु विशालके ॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।सप्त जन्म कृतं पापं स्मरणेन विनश्यति ॥ सम्पूर्ण स्तोत्रम् सौराष्ट्रदेशे विशदेஉतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥ श्रीशैलशृङ्गे…
शिव भुजङ्गम्
गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ 1 ॥ अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् ।हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ 2 ॥ स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं मनोहारि सर्वाङ्गरत्नोरुभूषम् ।जटाहीन्दुगङ्गास्थिशम्याकमौलिं पराशक्तिमित्रं नमः पञ्चवक्त्रम् ॥ 3 ॥ शिवेशानतत्पूरुषाघोरवामादिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा ॥ 4 ॥ प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणि श्रीमहः श्याममर्धम् ।गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसम्पत्तिहेतोः ॥ 5 ॥ स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमन्दारमालाभिषिक्तम् ।नमस्यामि…