द्वादश ज्यॊतिर्लिन्ग स्तॊत्रम्

लघु स्तोत्रम् सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् ।उज्जयिन्यां महाकालम् ॐकारेत्वमामलेश्वरम् ॥पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् ।सेतुबन्धेतु रामेशं नागेशं दारुकावने ॥वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे ।हिमालयेतु केदारं घृष्णेशन्तु विशालके ॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।सप्त जन्म कृतं पापं स्मरणेन विनश्यति ॥ सम्पूर्ण स्तोत्रम् सौराष्ट्रदेशे विशदे‌உतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥ श्रीशैलशृङ्गे…

शिव भुजङ्गम्

गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ 1 ॥ अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् ।हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ 2 ॥ स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं मनोहारि सर्वाङ्गरत्नोरुभूषम् ।जटाहीन्दुगङ्गास्थिशम्याकमौलिं पराशक्तिमित्रं नमः पञ्चवक्त्रम् ॥ 3 ॥ शिवेशानतत्पूरुषाघोरवामादिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा ॥ 4 ॥ प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणि श्रीमहः श्याममर्धम् ।गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसम्पत्तिहेतोः ॥ 5 ॥ स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमन्दारमालाभिषिक्तम् ।नमस्यामि…

उमा महॆश्वर स्तॊत्रम्

नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् ।नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 1 ॥ नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् ।नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 2 ॥ नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।विभूतिपाटीरविलेपनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 3 ॥ नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् ।जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 4 ॥ नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।प्रपञ्चसृष्टिस्थितिसंहृताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 5 ॥ नमः शिवाभ्यामतिसुन्दराभ्यां अत्यन्तमासक्तहृदम्बुजाभ्याम् ।अशेषलोकैकहितङ्कराभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ 6 ॥ नमः…

श्री अन्नपूर्णा स्तॊत्रम्

नित्यानन्दकरी वराभयकरी सौन्दर्य रत्नाकरीनिर्धूताखिल घोर पावनकरी प्रत्यक्ष माहेश्वरी ।प्रालेयाचल वंश पावनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ 1 ॥ नाना रत्न विचित्र भूषणकरि हेमाम्बराडम्बरीमुक्ताहार विलम्बमान विलसत्-वक्षोज कुम्भान्तरी ।काश्मीरागरु वासिता रुचिकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ 2 ॥ योगानन्दकरी रिपुक्षयकरी धर्मैक्य निष्ठाकरीचन्द्रार्कानल भासमान लहरी त्रैलोक्य रक्षाकरी ।सर्वैश्वर्यकरी तपः फलकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ 3 ॥ कैलासाचल…

शिव मानस पूज

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरंनानारत्न विभूषितं मृगमदा मोदाङ्कितं चन्दनम् । जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथादीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥ सौवर्णे नवरत्नखण्ड रचिते पात्रे घृतं पायसंभक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।शाकानामयुतं जलं रुचिकरं कर्पूर खण्डोज्ज्चलंताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलंवीणा…

तॊटकाष्टकम्

विदिताखिल शास्त्र सुधा जलधेमहितोपनिषत्-कथितार्थ निधे ।हृदये कलये विमलं चरणंभव शङ्कर देशिक मे शरणम् ॥ 1 ॥ करुणा वरुणालय पालय मां भवसागर दुःख विदून हृदम् ।रचयाखिल दर्शन तत्त्वविदं भव शङ्कर देशिक मे शरणम् ॥ 2 ॥ भवता जनता सुहिता भविता निजबोध विचारण चारुमते ।कलयेश्वर जीव विवेक विदं भव शङ्कर देशिक मे शरणम् ॥ 3 ॥ भव एव भवानिति मे नितरां समजायत…

सौन्दर्य लहरि

प्रथम भागः – आनन्द लहरि भुमौस्खलित पादानाम् भूमिरेवा वलम्बनम् ।त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे ॥ शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुंन चेदेवं देवो न खलु कुशलः स्पन्दितुमपि।अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपिप्रणन्तुं स्तोतुं वा कथ-मक्र्त पुण्यः प्रभवति॥ 1 ॥ तनीयांसुं पांसुं तव चरण पङ्केरुह-भवंविरिञ्चिः सञ्चिन्वन् विरचयति लोका-नविकलम् ।वहत्येनं शौरिः कथमपि सहस्रेण शिरसांहरः सङ्क्षुद्-यैनं भजति भसितोद्धूल…

जगन्नाथाष्टकम्

कदाचि त्कालिन्दी तटविपिनसङ्गीतकपरोमुदा गोपीनारी वदनकमलास्वादमधुपःरमाशम्भुब्रह्मा मरपतिगणेशार्चितपदोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 1 ॥ भुजे सव्ये वेणुं शिरसि शिखिपिंछं कटितटेदुकूलं नेत्रान्ते सहचर कटाक्षं विदधतेसदा श्रीमद्बृन्दा वनवसतिलीलापरिचयोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 2 ॥ महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरेवसन्प्रासादान्त -स्सहजबलभद्रेण बलिनासुभद्रामध्यस्थ स्सकलसुरसेवावसरदोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 3 ॥ कथापारावारा स्सजलजलदश्रेणिरुचिरोरमावाणीसौम स्सुरदमलपद्मोद्भवमुखैःसुरेन्द्रै राराध्यः श्रुतिगणशिखागीतचरितोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥…

अच्युताष्टकम्

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिका वल्लभंजानकीनायकं रामचन्द्रं भजे ॥ 1 ॥ अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिका राधितम् ।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे ॥ 2 ॥ विष्णवे जिष्णवे शङ्कने चक्रिणेरुक्मिणी राहिणे जानकी जानये ।वल्लवी वल्लभायार्चिता यात्मनेकंस विध्वंसिने वंशिने ते नमः ॥ 3 ॥ कृष्ण गोविन्द हे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे ।अच्युतानन्त हे माधवाधोक्षजद्वारकानायक…

दक्षिणा मूर्ति स्तॊत्रम्

शान्तिपाठः ॐ यो ब्रह्माणं विदधाति पूर्वंयो वै वेदांश्च प्रहिणोति तस्मै ।तंहदेवमात्म बुद्धिप्रकाशंमुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ध्यानम् ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानंवर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिंस्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ वटविटपिसमीपे भूमिभागे निषण्णंसकलमुनिजनानां ज्ञानदातारमारात् ।त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवंजननमरणदुःखच्छेद दक्षं नमामि ॥ चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा ।गुरोस्तु मौनव्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥ ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः…